प्राङ्गणे सुष्ठु बद्धा बहुदुष्टबला कपिला नाम धेनुः बद्धा आसीत्। एकदा विभावयां सा धेनुः केनापि चौरेण हृता। अथ स कर्षकः अन्यां धेनुं क्रेतुं हट्टवीथिकासु दूरवर्ति किमपि नगरम् अगच्छत्। तत्र तु विक्रयार्थमानीतासु धेनुषु स्वकीया धेनुः अनेन दृष्टद्वैवाभिज्ञाता। ततः सपदि एव धेनोः समीपं गत्वा उच्चैः अभाषत-भोः जनाः मदीया इयं धेनुः अत्र तिष्ठति। चत्वारि दिनान्यतीतानि मम गृहात् अस्याः मुषितायाः। ततः तस्याः धेनोः मिथ्यास्वामी सः पाटच्चरः दाक्षिण्यगर्भया वाचा अब्रवीत्- 'भद्रमुख, मोहमापादिता ते दृष्टिः। इदानीं संवत्सरादप्यधिकं कालम् एषा धेनुः मत्सकाशे वर्तते। कदाचित् आकारसादृश्येन त्वदीयधेनोः अनुकरोति। परं मदीया एव इयं गौरित्यत्र नास्ति सन्देहः' इति। एतदाकर्ण्य सः कृषीवलः सत्वरं तस्याः धेन्वाः अक्षिणी पाणिभ्यां पिधाय तं मिथ्यास्वामिनमभाषत- "यदि इयतो दिवसान् धेनुरियं तव गृहे तिष्ठति तर्हि त्वया परीक्षिता स्यात्। तद् वद कतरेण नेत्रेण काणा इयम् ? अपि च केन नाम्ना आहूता सा सत्वरमागच्छति ?" इति। स अपि प्रत्यग्रमुषितायास्तस्या धेनोः अवयवविशेषान् नावगच्छति। सम्भ्रान्तः सः किमपि वक्तव्यमित्यतः "वामेन लोचनेन काणा" इति अवदत्। कृषीवलः तं वञ्चयितुं पुनः प्राह, "सखे, सम्यक् विमृश्य एवं वद" इति। ततः अधिकमेव सम्मोहितः सः स्तेनः प्रत्यवदत- "आम्, विस्मृतं खलु मया। न वामेन परं दक्षिणेन एव नेत्रेण काणा ममैषा धेनुः। मया प्रमादात् प्रथमं विपरीतमेवाधिहितम्। वस्तुतः तु दक्षिणमेव अस्याः चक्षुः विकलम्" इति। तदनन्तरं सः स्वामी धेनुनयनाभ्यां पाणी अपनीय प्रोच्चैः अघोषयत्, "पश्यत भोः जनाः पश्यत। अयं पुरुषः चौर्यनिपुणः अनृतवादी च इति सिद्धमेव इदानीम्। मम धेनोः न केनापि नयनेन काणा। केवलं दुरात्मनः अस्य चौर्यशीलं मिथ्यावादं च व्यक्तीकर्तुं मया अयं प्रश्नः कृतः। भवन्तः अधुना पश्यन्तु" इति। "अयि कपिले, आगच्छ, आगच्छ" इति तेन परमस्नेहेनाहूता सा गले रज्जुबद्धापि तं कृषीवलं प्रति आगन्तुं प्रायतत। सर्वे समीपवर्तिनः जनाः "सम्यक् गृहीतः चौरः" इति निनादमकुर्वन्। स तस्करोऽपि राजपुरुषैः निरुध्य न्यायाध्यक्षस्य पुरतः नीतः। कृषीवलः स्वकीयां धेनुमविन्दत आनन्दितः च अभवत्। सर्वे जनाः कृषकस्य चातुर्यम् अप्रशंसन्। 'कृषक' इति पदस्य पर्यायो भवति
Choose Your Option
A. लिपिकः
B. धनपालः
C. द्वारपालः
D. कृषीवलः