अपसृते च तस्मिन् स विहंगराजो राजाभिमुखो भूत्वा समुन्नम्य दक्षिणं चरणमतिस्पष्टान्त-स्वरसंस्कारया गिरा कृतजयशब्दो राजानमुदिश्यार्धार्धामिमां पपाठ- “स्तनयुगमश्रुस्रस्तस्रस्तमौक्तिकं हृदयशोकानले। चिरविरहमिवोत्कण्ठाकुलितं व्रतमिव भवतो रिपुस्त्रीणाम्”। राजा तु तामार्यां श्रुत्वा संजातविस्मयः सहर्षमासन्नवर्तिनः अतिमहाभागमानोपविष्टम् अमरगुरूपमानविशेषनीतिशास्त्रपारंगम् अतिवयः-समग्रजन्मनिष्ठितं मन्त्रिमण्डलप्रधानममात्यं कुमारपालितनामाब्रवीत्- श्रुता भवद्भिरस्य विहंगमस्य स्पष्टता वर्णोच्चारणे स्वरे च मधुरता! प्रथमं ताविदमेव महदाश्चर्यम्, यदयमसंकीर्णवर्णं प्रविभागवदव्यक्तमप्यनुस्वार-स्वरसंस्कारयोगं विशेषसंयुक्ताम् अतिपरिस्फुटाक्षरां गिरमुदीरयति। किसने राजा की ओर मुख करके आर्या छन्द को पढ़ा ?
Choose Your Option
A. विहंगराज ने
B. जयशब्द ने
C. व्याकरण ने
D. इनमें से कोई नही