एकदा स्वातिनामकः मुनिः पिपासया पीडितो अभवत्। जलान्वेषणाय तेन कञ्चन आह्लादकरः शब्दः श्रुतः। तम् अनुसृत्य स अग्रे गतः। तत्र कुत्रचित् पर्वतात् पतन्तः जलबिन्दवः शुष्कपर्णानाम् उपरि पतित्वा मधुरं सङ्गीतं जनयन्ति स्म। एतद् अवगत्य प्रीतः स तृषाकुलतां विस्मृत्य वेगेन आश्रमम् आगतवान्। सङ्गीतसाधनेषु प्रतिध्वनेः उत्पादनार्थं यः सूक्ष्मः क्रियाकलापः आवश्यकः तम् अन्विष्टवान् सः एवं यत् सङ्गीतसाधनं निर्मितवान् तस्य नाम मृदङ्ग इति। 'विस्मृत्य' पदे प्रत्ययः अस्ति ?
Choose Your Option
A. ल्यप्
B. क्त्वा
C. क्त
D. क्यप्